सूर्याष्टकं

field_imag_alt

सूर्याष्टकं - Sri Surya Ashtakam 

|| श्री गणेशाय नमः ||

सांब उवाच ||

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर |
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते || 1||

सप्ताश्वरथमारूढं प्रचंडं कश्यपात्मजं |
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहं || 2||

लोहितं रथमारूढं सर्वलोकपितामहं |
महापापहरं देवं तं सूर्यं प्रणमाम्यहं || 3||

त्रैगुण्यं च महाशूरं ब्रह्माविष्णुमहेश्वरं |
महापापहरं देवं तं सूर्यं प्रणमाम्यहं || 4||

बृंहितं तेजःपुंजं च वायुमाकाशमेव च |
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहं || 5||

बंधूकपुष्पसंकाशं हारकुंडलभूषितं |
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहं || 6||

तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनं |
महापापहरं देवं तं सूर्यं प्रणमाम्यहं || 7||

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदं |
महापापहरं देवं तं सूर्यं प्रणमाम्यहं || 8||

सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनं |
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् || 9||

आमिशं मधुपानं च यः करोति रवेर्दिने |
सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता || 10||

स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने |
न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति || 11||

इति श्रीसूर्याष्टकस्तोत्रं संपूर्णं ||