श्री प्रत्यंगिरा कवचं - Sri Prathyangira Kavacham
हरिः ॐ- देव देव महादेव सर्वज्ञ करुणानिधे,
प्रत्यंगिरायाः कवचं सर्वरक्षाकरं नृणाम्.
जगन्मांगळिकं नाम प्रसिद्धं भुवनत्रये,
सर्वरक्षाकरं नृणां रहस्यमपि तद्वद.
श्री शिव उवाच:
शृणु कल्याणि वक्ष्यामि कवचं शत्रुनिग्रहम्,
परप्रेषितकर्माणि तत्र शल्यादि भक्षणम्.
महाभिचारशमनं सर्वकार्यप्रदं नृणाम्,
परसेनासमूहेच राज्ञमुद्दिश्य मंडलात्.
जप मात्रेण देवेशि सम्यगुच्चाटनं भवेत्,
सर्वतन्त्र प्रशमनं कारागृह विमोचनम्.
क्षयापस्मारकुष्टादि ताप ज्वर निवारणम्,
पुत्रदं धनदं श्रीदं पुण्यदं पापनाशनम्.
वश्यप्रदं महाराज्ञं विशेषाच्छत्रुनाशनम्,
सर्वरक्षापरं शून्य ग्रहपीडा विनाशनम्.
बिंदुत्रिकोणं त्वथ पंचकोणं दळाष्टकं षोडशपत्र वृत्तम्,
मही पुरेणावृतमंबुजाक्षि लिखेन्मनोरंजन मग्रतोपि
याम्यां पुरीं यातिरिपुः प्रयोगात्,
स्वतंनिवृत्त्या रघुनाथ बीजात्. (?)
महीपुरात्वूर्वमेव द्वात्रिंश त्पत्र मालिखेत्,
अंतरे भूपुरं लेख्यं कोणाग्रे क्षां समालिखेत्.
भद्रकाळीमनुं लेख्यं मंत्रं प्रत्यंगिरात्मकम्,
भद्रकाळ्युक्तमार्गेण पूज्यां प्रत्यंगिरां शिवाम्.
रक्तपुष्पैस्समभ्यर्च्य कवचं जप माचरेत्,
सकृत्पठनमात्रेण सर्वशत्रून् विनाशयेत्.
शत्रवश्च पलायं ते तस्य दर्शनमात्रतः,
मासमात्रं जपेद्देवि सर्वशत्रून् विनाशयेत्.
यां कल्पयंती प्रदिशं रक्षेत्काळी त्वधर्वणी, –
रक्षेत्कराळत्वाग्नेय्यां सदा मां सिंहवाहनी
.
याम्यां दिशं सदा रक्षेतृक्षज्वाला स्वरूपिणी,
नैरृत्यां रक्षतु सदा मास्मानृच्चो अनागसः.
वारुण्यां रक्षतु मम प्रजां च पुरुषार्धिनी,
वायव्यां रक्षतु सदा यातुधान्यो ममाखिलाः
दंष्ट्राकराळवदना कौबेर्यां बडबानला,
ईशान्यां मे सदा रक्षद्वीरांश्चान्यान्नि बर्हय.
उग्रा रक्षेदधोभागे मायामन्त्र स्वरूपिणी,
ऊर्ध्वं कपालिनी रक्षेत् क्षं ह्रीं हुं फट् स्वरूपिणी.
अधो मे विदिशं रक्षोत्कुरुकुळ्ळा कपालिनी,
प्रविचित्ता सदा रक्षेत् दिवारात्रं विरोधिनी.
कुरुकुळ्ला तु मे पुत्रान् बांधवा नुग्ररूपिणी,
प्रभादीप्त ग्रहा रक्षेत् मातापुत्रांत्स्वमातृजान्.
स्वभृत्यान् मे सदा रक्षेत्पायात् सा मे पशून्सदा,
अजिता मे सदा रक्षेदपराजित कामदा..
केशं रक्षेत्सहप्राणी द्विनेत्रा कासरात्रिका,
फालं पातु महाक्रूरा वेग केशी शिरोरुहान्.
भ्रुवा मे क्रूरवदना पायाच्चंडी प्रचंडिका,
श्रोत्रयोर्युगळं पातु तदा मे शंखकुंडला.
प्रेत चित्यासना देवी पायान्नेत्रयुगं मम,
मम नासायुगद्वंद्वं ब्रह्मरोचिष्ण्य मित्रहा.
कपोलौ मे सदा पातु भृगवश्चाप सेधिरे,
ऊर्वोष्ठं तु सदा पातु रथस्येव विभुर्दिया
अधरोष्ठं सदा पातु अज्ञातस्ते वशो जनः,
दंतपंक्तिद्वयं पातु ब्रह्मरूपी कराळिनी.
वाचं वागीश्वरी रक्षे द्रसनां जननी मम,
चुबुकं पातु मेंद्राणी तनूंऋच्छस्व हेळिका.
कर्णस्थानं मम सदा रक्षतां कंबुकंधरा,
कंठध्वनिं सदा पातु नादब्रह्ममयी मम.
जठरं मेंगिरः पुत्री मे वक्षः पातु कांचनी,
पातु मे भुजयोर्मूलं जात वेदस्वरूपिणी.
दक्षिणं मे भुजं पातु सततं काळरात्रिका,
वामं भुजं वाम केशी परायंती परावती.
पातु मे कूर्परद्वंद्वं मनस्तत्वाभिधा सती,
वाचं वागीश्वरी रक्षेत्रसनां जननी मम. .
वज्रे श्वरी सदा पातु प्रकोष्ठयुगळं मम,
मणिद्वयं सदा पातु धूम्रा शत्रुजिघांसया.
पायात्करतलद्वंद्वं कदंबवनवासिनी,
वामपाण्यंगुळी पातु हिनस्ति परशासनम्.
सव्य पाण्यंगुळी पातु यदवैषि चतुष्पदी,
नाभिं नित्या सदा पातु ज्वालाभैरवरूपिणी.
पंचास्यपीठनिलया पातु मे पार्श्व योर्युगम्,
पृष्ठं प्रज्ञेश्वरि पातु कटिं स्वस्थनितंबिनी.
गुह्यमानंदरूपाव्यादंडं ब्रह्मांडनायकी,
पायान्मम गुदस्थान मिंदुमौळिमन शुभा.
बीजं मम सदा पातु दुर्गा दुर्गार्ति हारिणी,
ऊरू मे पातु क्षांतात्मा त्वं प्रत्यस्य स्वमृत्यवे.
वाणी दुर्गा सदा पातु जानुनी वनवासिनी,
जंघाकांडद्वयं पातु यश्चजामिशपातिनः.
गुल्फयोर्युगळं पातु यो स्मान् द्वेष्टि वधस्व तम्,
पदद्वंद्वं सदाव्यान्मे पदाविस्फार्य तच्छिरः.
अभिप्रेहि सहस्राक्ष पादयोर्युगळं मम,
पायान्मम पदद्वंद्वं दहन्नग्निरिव प्रदम्.
सर्वांगं पातु पानीयात्सर्व प्रकृतिरूपिणी,
मंत्रं प्रत्यंगिराकृत्या कृत्या च्चासुहृदो सुहा.
पराभिचारकृत्यात्म सम्मिधं जात वेदसम्,
परप्रेषित शल्यात्मे तमितो नाशयामसि.
वृक्षादि प्रतिरूपात्म शिवं दक्षिणतस्कृधि,
अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे.
भूत प्रेतपिशाचाद्यान् प्रेषितान् जहि मां प्रति,
भूत प्रेतपिशाचादी परतन्त्र विनाशिनी.
पराभिचारशमनी धारणात्सर्वसिद्धिदाम्,
भूर्जपत्रे स्वर्ण पत्रे लिखित्वा धारयेद्यदि.
सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत्
एकवृत्तिं जपेद्देवि सर्वऋग्जपदा भवेत्.
भद्रकाळी प्रसन्ना भूदभीष्ट फलदा भवेत्,
बंदीगृहे सप्तरात्रं चोरद्रव्य ष्ट रात्रकम्.
महाज्वरे सप्तरात्रं उच्चाटे मासमात्रकम्,
महाव्याधि निवृत्तिस्स्यान्मंडलं जपमाचरेत्.
पुत्रकार्ये मासमात्रं महाशत्रुत्वमंडलात्,
युद्धकार्ये मंडलं स्याद्धार्यं सर्वेषु कर्मसु.
अस्मिन्यज्ञे समावाह्य रक्तपुष्पैस्समर्चयेत्,
नत्वा न कर्तु मर्हासि इषुरूपे गृहात्सदा.
शास्त्रालये चतुष्पथे स्वगृहे गेहळीस्थले,
निखनेद्यं त्रिशल्यादि तदर्धं प्रापयाशुमे.
मासोच्छिष्टश्च द्विपदमेतत्किंचि च्चतुष्पदम्,
माज्जाति रनुजानस्यान्मासावेशि प्रवेशिनः. .
बले स्वप्नस्थले रक्षेद्यो मे पापं चिकीर्षति,
आपादमस्तकं रक्षेत्तमेव प्रतिधावतु.
प्रतिसर प्रतिधाव कुमारीव पितुर् गृहं
मूर्थान मेषां स्फोटय वधाम्येषां कुले जहि.
ये मे मनसा वाचा यश्च पापं चिकीर्षति,
तत्सर्वं रक्षतां देवी जहि शत्रूंत्सदा मम.
खट्फड्जहि महाकृत्ये विधूमाग्नि समप्रभे,
देवि देवि महादेवि मम शत्रून्विनाशय. .
त्रिकालं रक्ष मां देवि पठतां पापनाशनम्,
सर्वशत्रुक्षयकरं सर्वव्याधि विनाशनम्.
इदं तु कवचं ज्ञात्वा जपेत्र्पत्यंगिरा ऋचम्
शतलक्षं प्रजप्त्वापि तस्य विद्या न सिध्यति.
मन्त्रस्वरूप कवच मेक कालं पठेद्यदि,
भद्रकाळी प्रसन्नात्मा सर्वाभीष्टं ददाति हि.
महापन्नो महारोगी महाग्रन्द्यादि पीडने,
कवचं प्रथमं जप्त्वा पश्चादृग्जपमाचरेत्.
पक्षमात्रात्सर्वरोगा नश्यंत्येव हि निश्चयम्,
महाधन प्रदं पुंसां महादुस्स्वप्न नाशनम्.
सर्वमंगळदं नित्य वांछितार्थ फलप्रदम्,
कृत्यादि प्रेषिते ग्रस्ते पुरस्ताज्जुहुयाद्यदि.
प्रेषितं प्राप्य झडिति विनाशं प्रददाति हि,
स्वगृह्योक्तविधानेन प्रतिष्टाप्य हूताशनम्.
त्रिकोणकुंडे चावाह्य षोडशैरुपचारतः,
यो मे करोति मन्त्रोण खट्फड्जहीति मंत्रतः.
हुने दयुतमात्रेण यन्त्रस्य पुरतो द्विजः,
क्षणादावेश माप्नोति भूतग्रस्तकळेबरे.
विभीतकमपामार्गं विषवृक्ष समुद्भवम्,
गुळूचीं विकतं कांतमंकोलं निंबवृक्षकम्.
त्रिकटुं सर्ष पं शिग्रुं लशुनं भ्रामकं फलम्,
पंच ऋग्बिस्सुसंपाद्य आचार्य सहितश्शुचिः.
दिनमेक सहस्रं तु हुनेद्यान पुरस्सरः,
सर्वारिष्ट स्सर्वशांतिः भविष्यति न संशयः.
शत्रुकृत्ये चैवमेव हुनेद्यदि समाहितः,
स शत्रुर्मित्र पुत्रादियुक्तो यमपुरीं व्रजेत्.
ब्रह्मापि रक्षितुं नैव शक्तः प्रतिनिवर्तने,
महत्कार्य समायोगे एवमेवं समाचरेत्.
तत्कार्यं सफलं प्राप्य वांछितान् लभते सुधीः,
इदं रहस्यं देवेशि मंत्रयुक्तं तवान घे.
शिष्याय भक्ति युक्ताय वक्तव्यं नान्यमेव हि,
निकुंभिळामिंद्रजिता कृतं जय रिपुक्षये.
इति श्री महालक्ष्मीस्ते प्रत्यक्ष सिद्धि प्रदे उमामहेश्वर संवादे श्री शंकरेण विरचिते श्री प्रत्यंगिरा कवचम्.