बगलामुखी कवचं - Sri Baglamukhi Kavacham
|| अथ बगलामुखीकवचं ||
श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर |
इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ||
वैरिनाशकरं दिव्यं सर्वाशुभविनाशनं |
शुभदं स्मरणात्पुण्यं त्राहि मां दुःखनाशनं ||
श्रीभैरव उवाच ||
कवचं शृणु वक्ष्यामि भैरवी प्राणवल्लभे ||
पठित्वा धारयित्वा तु त्रैलौक्ये विजयी भवेत् ||
ॐ अस्य श्रीबगलामुखीकवचस्य नारदऋषिरनुष्टुप्छंदः
श्रीबगलामुखी देवता लं बीजं ऐं कीलकं
पुरुषार्थचतुष्टये जपे विनियोगः ||
शिरो मे बगला पातु हृदयैकाक्षरी परा |
ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ||
गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी |
वैरिजिह्वांधरा पातु कंठं मे बगलामुखी ||
उदरं नाभिदेशं च पातु नित्यं परात्परा |
परात्परपरा पातु मम गुह्यं सुरेश्वरी ||
हस्तौ चैव तथा पातु पार्वतीपरिपातु मे |
विवादे विषमे घोरे संग्रामे रिपुसंकटे ||
पीतांबरधरा पातु सर्वांगं शिवनर्तकी |
श्रीविद्यासमयो पातु मातंगीदुरिताशिवा ||
पातुपुत्रं सुतां चैव कलत्रं कालिका मम |
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ||
संदेहि बगलादेव्याः कवचं मन्मुखोदितं |
नैव देयममुख्याय सर्वसिद्धिप्रदायकं ||
पठनाद्धारणादस्य पूजनाद्वांछितं लभेत् |
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीं ||
पिबंति शोणितं तस्य योगिन्यः प्राप्यसादराः |
वश्ये चाकर्षणे चैव मारणे मोहने तथा ||
महाभये विपत्तौ च पठेद्वापाठयेत्तु यः |
तस्य सर्वार्थसिद्धिः स्याद्भक्तियुक्तस्य पार्वती ||
इति श्रीरुद्रयामले बगलामुखीकवचं संपूर्णं ||