संकटनाशन गणेश स्तोत्रं - Sankata Nasana Ganesha Stotram
श्रीगणेशाय नमः | नारद उवाच |
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं |
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये || 1||
प्रथमं वक्रतुंडं च एकदंतं द्वितीयकं |
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकं || 2||
लंबोदरं पंचमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेंद्रं धूम्रवर्णं तथाष्टमं || 3||
नवमं भालचंद्रं च दशमं तु विनायकं |
एकादशं गणपतिं द्वादशं तु गजाननं || 4||
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः || 5||
विद्यार्थी लभते विद्यां धनार्थी लभते धनं |
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिं || 6||
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः || 7||
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः || 8||
|| इति श्री नारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णं ||